Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 22
________________ धर्म सागरीय XXXX तथा (संदेहदोलावल्यां) श्रीजिनदत्तसूरिभिरूचे - “गिहिणो इह विहियायंबिलस्स कप्पंति दुनि दव्वाणि । एगं समुचियमन्नं, बीयं पुण फासु नीरं । १०४ | " अत्र लघुवृत्तौ (८३ पृष्टे) "एकं 'समुचितं' स्वशरीरस्य प्रस्तुततपसो वाऽनुकूलत्वेन प्रायोग्यं 'अनं' उत्तममध्यमजघन्यरूपं कलमशाल्यादि, द्वितीयं पुनः 'प्रासुकं' त्रिदंडोत्कलितत्वेन भावकद्रव्य सम्पर्कोत्पन्नवर्णान्तरितत्वेन वाऽचित्तीभूतं समुचितमिति विशेषणमत्रापि योज्यते, ततश्च मासुकं समुचितं च नीरमित्यर्थः तथा प्रासुकमेव, न तु सचित्तं प्रामुकमपि समुचितमेव, न त्वनुचितं, तिलोदकयवोदकतण्डुलोदककरीरोदकसङ्गरोदकसंस्वेदिमोदकं द्राक्षाखर्जूरदाडिमचिचागुडखण्डादिधावनजलं वा एतानि हि जुगुप्सनीयत्वेन गृहस्थैः पीयमानानि धर्मकुत्साहेतव एवेत्यनुचितानि यतीनां तु भिक्षाचरत्वेनोचितानि, उचितमपि नीरमेव, न तु काञ्जिकावस्रावणतक्रेक्षुरसादीनि तेषां हि पानकाऽऽहारत्वेऽपि शुद्धयहेतुत्वेनाचमनादिकार्यानईत्वात्, अत एव प्रत्याख्यानचूर्णौ जलमेवोक्तं, यथा- जावइयं उवजुज्जर, तावइयं भायणे गहेऊणं । जलनिब्बुर्ड काउं, भुत्तव्वं एस इत्थ विही । १।” तथा 'सूरे उग्गए पुरिमs पञ्चख्खामि चन्विहं तिविहपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ० सह० पच्छन्न० दिसा० साहु० मह० सव्व० आयंबिलं पञ्चख्खामि अन्नत्थ० सह० लेवा० उखित्त० गिहत्थ० पारि० मह० सव्वसमा० एगासणगं पच्चख्खामि तिनिपि आहारं ' इत्यादि 'द्रव्य २ सेस सव्वनियम अन्नत्थ• सह० महत्तरा० सव्वसमा हिवत्तियागारेण वोसिरामि' श्रीजेसलमेरुभाण्डागारे संवत् १२१५ वर्षे लिखितपुस्तिकायामयमाचाम्लपाठः, एतावताऽऽचाम्ले सर्वत्र द्रव्यद्वयमेवोक्तं, तद्द्वयातिरिक्तद्रव्यनिषेधः श्रीजिनपतिसूरिभिरप्युक्तः “आयंबिले पप्पढघुग्घुरिया वेढमिया इड्डरिया तक्काइ निसेहो २५ । " भवत्पक्षे तु हीरविजयसूरिप्रसादी कृतप्रश्नोत्तरसमुच्चये तच्छिष्यपण्डितकीर्तिविजयगणिसमुच्चिते दशमप्रश्नोत्तराधिकारे इदमुक्तं " आचामाम्लमध्ये शुण्ठीमरिचादिकं कल्पते तरिक कारणेन स्वभावेन वेत्ति १ (प्रश्नः), अत्र उत्सूत्र| खण्डनम् ॥ १० ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74