Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 63
________________ प्यामीत्येवं विधेन परिणामेनोपविष्टो मण्डल्यां भुङ्क्ते यस्तथैव एष साधुः शुभपरिणामत्वात्ससार उपविष्टः ससारश्वोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात् । एवमेव य भंगति, जोएयव्वं तु सारनाणाई । तेण सहिओ ससारो, समुद्दवणिएण दिलुतो ।५७२। व्याख्या-एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः ससारो निविठ्ठो ससारो उठिओ १, ससारो निविट्ठो असारो उहिओ बितिओ भंगो २, असारो निविठ्ठो ससारो उडिओ तइओ ३, असारो निविठ्ठो असारो उढिओ एस चउत्थो ४, सारश्चात्र ज्ञानादिः, आदिग्रहजणाद्दर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते” इत्यादि (मुद्रितौघनिर्युक्तौ १८८ पत्रे)।४।४।। २८-तथा पर्युषितपूपिकानां निषेधस्तपागच्छनायकश्रीरत्नशेखरसूरिकृतायां 'विधिकौमुदी'नाम्न्यां श्राद्धविधिप्रकरणवृत्तौ न कृतः किन्तु पर्युषितद्विदलपूपिकानिषेधः, तत्पाठस्त्वयं (मुद्रितायां ४१ पत्रे) “पर्युषितद्विदलपूपिकादिकेवलजलराद्धकूरादिः, तथा अन्यदपि सर्वत्र कुथितान्नं पुष्पितौदनपक्कान्नादि चाभक्ष्यत्वेन वर्जनीयं” तनिषेधश्चास्माभिरपि क्रियते, को नाम पर्युषितद्विदलपूपिका स्वीकारयति ?, एवं सर्वत्र सूत्रानुसारेण पर्युषितद्विदलग्रहणे साक्षात्स्फुरति सति यदस्मान् पर्युषितद्विदलग्रहणेन दृषयसि आत्मानं च पर्युषितपूपिकाया अग्रहणेन दूषितमपि न लक्षयसि, अहो !! ते शुभदिनवैपरीत्यं रामोपस्थितौ दशाननवज्जज्ञे, यद्विद्यमानामपि शास्त्रपद्धति साक्षात्सुरसुन्दरी मन्दोदरीमिवावगणय्याविद्यमानां वचनरचनां सती सीतामिव समीहसे ततस्त्वत्तः परः क उत्सूत्रभाषि ? इति विमृश ।४।५।। २९-"अपि-पुनर्दोषस्य प्रतिपत्तिरङ्गीकारोऽपि, क्व ? 'सश्रमणश्रमणीविहारे'ससाधुसाध्वीविहार इत्यर्थः, एवमुपलक्षणात्सांगरिकबुबुलादीनां द्विदलत्वेनोपदेशोऽपि वस्तुवितथभणनं ज्ञेयमिति, अत्र यद्यपि प्रागुक्तात्रयोऽपि प्रकाराश्चतुर्थेऽन्तर्भवन्ति, सर्वेषामपि वितथवस्तुप्ररूपणारूपत्वात, तथापि क्रियाया आधिक्ये तावन्न कश्चिद्दोषः प्रत्युताप्रमत्ततेति कस्यचिन्मुग्धस्य व्यामोहो भवति, तद्व्युदासार्थ भेदकथनं, तथा च न्यूनाधिक

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74