Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
उत्सूत्रखण्डनम्
सागरीय
प्राप्तेषु भृगुपुरस्थस्याम्बडस्य विषमो देवीदोषोऽभूत् , तत्परिचारकैः सद्यः श्रीसूरेस्तत्स्वरूपविज्ञप्तिलेखः पहितः, तत्स्वरूपं ज्ञात्वा यशश्चन्द्रगणिना सहाचार्याः प्रदोषे खगत्या भृगुपुरं प्राप्ताः, प्रतिष्ठासमये भोगवल्याद्यदानस्ष्टाः सैन्धवादिदेव्योऽनुनेतुं कायोत्सर्गस्थान् गुरूँस्ताभिदेवीभिरवगणनास्पदं नीयमानान् दृष्ट्वा यशश्चन्द्रगणीरुदूखले शालितण्डुलान् क्षिप्त्वा प्रहारान् ददौ, आद्यपहारे देवीप्रासादकम्पः, द्वितीयपहारे देवीमूर्तय एव स्वस्थानादुत्पत्य 'वज्रपाणे ! वज्रप्रहारेभ्यो रक्ष रक्षे'त्युच्चरन्त्यो गुरोश्चरणयोः पेतुः, अम्बढो निरुक् जातः” तथा “एकदा श्रीगुरुभिः श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः, स च पद्मिनीकृतोत्तरसाधकत्वेन विविधविधिपूर्वं त्रिभिरपि साधितः, तस्याधिष्ठाता श्रीविमलेश्वरनामादेवः प्रत्यक्षीभूयोवाच-'स्वेप्सितं वरं वृणु' ततः श्रीहेमसूरिणा राजपतिबोधः देवेन्द्रसरिणा कान्तिनगर्याः प्रासाद एकरात्रे ध्यानबलेन सेरीसकग्रामे समानीतः, मलयगिरिणा सिद्धान्तवृत्तिकरणवर इति त्रयाणां वर दया देवः स्वस्थानमगात्" एवं च जिनशासनोनत्यर्थ स्थाने स्थाने देवतासाधनं श्रूयते, यदि चैवं मिथ्यात्वं स्यात्तदा सर्वेऽपि भवदुक्त्या मिथ्यात्वभाजो भवेयुः, अन्यच्च श्रीज्ञाताओं प्रथमज्ञाते (७ पत्रे) सुधर्मस्वामिवर्णनाधिकारे "विजापहाणा मंतप्पहाणा” इति पाठव्याख्यायां "विद्याः-प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा-हरिणेगमेष्यादिदेवताऽधिष्ठितास्ता एव, अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा इति" तत्साधनेनैव तत्प्रधानत्वमाकलनीयं, इदमपि स्मृतिप्रमोषपदे तवापतितं, तथा 'पञ्चनदीसाधन'मित्युक्तं तदेवावैयाकरणत्वं तब स्फुटयति, कथं ? " नदीभिश्च (२।१।२०)” इत्यत्र पाणिनिसूत्रे “नदीभिः (सह) संख्यासमस्यते, सोऽव्ययीभावः, समाहारे चायमिष्यते, सप्तगङ्गं द्वियमुनं पञ्चनद सप्तगोदावर"मित्यादिकथनात् 'पञ्चनदसाधन मिति स्यात् , तत्र पश्चनदसाधनमिति कोऽर्थः ?, तदधिष्ठाभ्यः पञ्चदेवता वर्तन्ते तासामवग्रहयाचनमकृत्वा कथं पुनस्तदुपकण्ठक्षेत्रेषु यतिना विहर्त्तव्यं ?, इति शय्यातरावग्रहयाचनबत्तदवग्रहयाचनं प्रति

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74