Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 56
________________ धर्म उत्सूत्र खण्डनम् दौत्पातिकमुपशाम्यति अविघ्नेनोत्तरामि च ततोऽनयोर्मणिरत्नयो मणिमय्यौ जिनप्रतिमे कारयिष्यामि, एवमौपयाचितके कृते देवता ऽनुभावेनौत्पातिकमुपशान्तमविघ्नं समुद्रोत्तरणमभृत् , सचोत्तीर्णः सन् लोभेन एकस्मिन्मणिरत्ने एकां जिनप्रतिमां कारयति, ततो देवतया सागरीय द्वितीयेऽपि मणिरत्ने द्वितीया जिनप्रतिमा कारिता, तथा चाह-देवताछन्देन ततो जाता द्वितीयेऽपि मणिरत्ने प्रतिमा । तो भत्तीए | वणिजो, सुस्सूसइ ता परेण जत्तेण । ता दीवएण पडिमा, दीसंतिहराउ रयणाई ।१२७१ व्याख्या-ततः प्रतिमायकारापणानन्तरं ते प्रतिमे वणिम् भक्त्या परेण यत्नेन शुश्रूषते, ततस्तयोश्च प्रतिमयोरिदं प्रातिहार्य-ते प्रतिमे यावद्दीपकः पार्थे ध्रियते तावद्दीपकेन Rall हेतुना प्रतिमे दृश्येते, 'इतरथा' दीपकाभावे सपकाशेऽपि प्रकाशे मणिरत्ने दृश्यते । सोऊण पाडिहरं, राया घेत्तण सिरिहरे छुहति । | मंगलमत्तीइ तओ, पूएति परेण जत्तेण ।११०" इत्यादिपाठेनाप्यौपयाचितककरणं प्रत्यपादि श्राद्धस्येति, अन्यच्चोपपत्तिकामपि | तवारोचमानामपि कर्णपथातिथिं कुर्महे, तथाहि-इह लोकार्य यदि तीर्थकृतः सप्रभावस्य पुरतो भोगादिमाननं विहितं तदा तस्य तावदेव फलं, तदधिष्ठातारश्च सुराः पूरयन्ति तत्कामितं, तथा च मिथ्यात्वं कथं भवति ?, अदेवे देवबुद्धिर्हि मिथ्यात्वं, अत्र तु अईत्यहत्प्रत्यय Pal एव तस्यास्ते, विपरीतप्रत्ययाभावात्सम्यक्त्वमेव, न मिथ्यात्वं, यदि पुनर्मानितवस्त्वप्राप्तौ जिनेष्ववमाननमपि स्यात्ततो मिथ्यात्वहेतु त्वान्मिथ्यात्वं ? तर्हि क्षेत्रपालादिभ्योऽप्युपयाचितायभ्युपगमे तदिष्टाप्राप्तौ तत्राकिञ्चित्करत्वावबोधे तन्माननमपि सम्यक्त्वं प्रसज्जेत् , अदेवेष्वदेवत्वबुद्धेनिमित्तत्वात् , समानयोगक्षेमत्वान्नैकोऽपि पर्यनुयोक्तव्यः, तथा स्वदेवान् परिहृत्य परदेवानां पुरतो माननादिर्यदि विदधीत तदा मिथ्यात्वमनेन प्रथितं भवति, लोका मिथ्यात्विन इति प्रतिपद्यन्ते यदेषां देवानां मध्ये किमपि सातिशयत्वं नास्ति अतएवामी अस्मद्देवसेवा हेवाकिनो बभूवुरिति स्वीयदेवेषु तेषां विशेषतो माननं स्यात् , 'स्वगृहं ज्वालयता परगृहज्वालनमपि तेन चक्र

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74