Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 48
________________ DAILYHIKSHA धर्म सागरीय उत्सूत्र खण्डनम् वच्छेदाय तद्व्यवच्छेदकस्य पञ्चेति पदस्य पश्चान नवजागरूकत्वात् , “पञ्चसु कल्याणवेषु हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तरफल्गुन्यः” इत्युक्त कल्पावचूरौ कुलमण्डनमूरिभिः, तथा “प्रतिफल्गुनीमेकैक हस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुव्रीह्यापत्ते"रिति भवदीयपाठे "प्रतिफल्गुनी"मित्यपपाठः, भवति च "प्रतिफल्गुनी"ति, अव्ययीभावादतिरिवदिति, अर्थापेक्षया त्वयं दोषः-"एकै हस्तमपेक्ष्य हस्ता उत्तरा यासा"मित्युक्त तत्रान्यपदार्थबहुत्वे किं समस्यमानपदानामपि बहुत्वं न्याय्यं ? येन "हस्ता उत्तरा यासा"मित्युच्येत, एवञ्च "चित्रा गौर्यपा”मिति समासे एकगोस्वामित्वे अन्यपदार्थापेक्षया "चित्रा गाव" इति प्रसक्तं स्यात् , अन्यच्च "बहुव्रीह्यापते"रित्यसङ्गतमेवेष्टत्वात्तस्य, “हस्त उत्तरो यासा"मिति बहुव्रीहेरेवाश्रयणात् , न चान्यपदप्रधानविग्रहमन्तरेणोत्तरफल्गुन्य उपलभ्यन्ते, तथा अवधिमतो बहुत्वे किमवधेरपि बहुत्वेन भाव्यं ?, हस्तादुत्तरस्यां दिशि उत्तरफल्गुनीनां विद्यमानत्वेन किं हस्तस्यापि बहुत्वं घटमानं ?, ध्रुवाद्रौव्येण तत्तद्दिगाद्युपलक्षितमन्दिरादिवस्तुवृन्दं वर्त्तते इति कि मन्दिरादिवस्तुबाहुल्ये ध्रुवस्यापि बाहुल्य केनचित्परिकल्प्येत १, ततो नैवविधो विग्रहाश्लिष्टो विग्रहकारी बहुव्रीहिरुदयमासादयेदिति कुतस्तदापत्तिविपत्तिरिति, तथा चतुर्णी च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति कुत उपलब्धिः ?, पश्चहस्तोत्तरो भगवानभूदिति कथनात् भवनं तु सर्वत्र समान मेव, यदि चत्वारि कल्याणकानि तदा भक्तोऽनिष्टोऽप्ययं गर्भापहारः कल्याणकत्वेन समापतित एव, सन्नियोगशिष्टानामन्यतरा(भावे)पाये उभयोरप्यभाव एवेति महाभाष्योक्तेः, यदि गर्भापहारस्याकल्याणकत्वं ? तदा तन्मिश्रितत्वात्तदन्येषां चतुर्णामप्येषामकल्याणकत्वं तव पक्षे बलादायातं, अपि च यद्याश्चर्यभूतत्वेन न मन्यसे गर्भापहारे कल्याणकत्वं ? तहि मल्लिस्वामिनोऽपि स्त्रीत्वे तीर्थकृत्त्वं न स्वीकरणीयमाशाम्बरक्त् , तत्राप्याथर्यभूतत्वरय समानत्वात् , तदुच्छेदे च तव गर्भश्रादेणेव गलिता तमधिकृत्य

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74