Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 47
________________ कश्चित् 'बहुवचनं बहुकल्याणकापेक्ष तदुपेक्षणीयमेव, प्रतिफल्गुनीमेकैकहस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुव्रीह्यापत्ते"रित्यादि, अत्रेयं खण्डनप्रक्रिया-पूर्व ( यत् ) समासद्वयं श्रीजिनप्रभसूरिभिर्व्याख्यातं तत्प्रमाणमेव, तस्य घटमानखात् , "हस्तोपलक्षिता वा उत्तरा हस्तोत्तरा-उत्तरफल्गुन्यः" अयं समासो न घटामटाट्यने, अनुक्तखाद्युक्त्यसङ्गतत्वाच्च, कथं ?, अत्र पूर्वसमासद्येऽप्युत्तरशब्द 'उत्तरफल्गुनी' वाचको नास्ति, किन्तु दिग्देशकालवाचकः, तत्र तु द्वयोः समासयोर्दिक्कालवाचकत्वं, तृतीये तु समासे 'उत्तर'शब्दो न दिक्कालवाचक: किन्तु त्वदभिप्रायेण 'उत्तरफल्गुनी' वाचकः, स च न घटते, अनेकार्थसङ्घहे तदर्थानभिधानात, यतः "उत्तरं प्रबरोद्धयोः। (श्लोक ११२४) उदीच्यप्रतिवचसो, रुत्तरस्तु विराटजे" इति, अभिधानकोषेऽपि “सा तूत्तरार्यमदेवा" इति पाठव्याख्यायां ""सा'फल्गुनी उत्तरा' उत्तरेति विशेषणविशिष्टा, उत्तरफल्गुन्यौ उत्तरफल्गुन्य इत्युक्त्यापि उत्तरशब्दः कालवाचकत्वेनोक्तः, पूर्वफल्गुन्युद्गमनापेक्षयोत्तरकाले उद्गमनादुत्तरफल्गुन्य”इति, तेन तव कल्पितोऽयं तृतीयोऽर्थः सर्वथाऽपि न घटते, तथा यद्भवतोक्तं "बहुवचनं फल्गुनीशब्दस्य प्रायो बहुवचनान्तप्रयोगा"दिति, इदमप्ययुक्त, शब्दानुशासने पाणिनिना द्वित्वे विकल्पेन बहुत्वाभिधानात, पायो ग्रहणं शब्दानुशासनानभिज्ञत्वमेव तव द्योतयति, श्रीहेमाचार्येणापि "फल्गुनी योनिदेवते"ति पाठव्याख्यायां नाममालावृत्तावुक्त-"यद्वाचस्पति-पूर्वफल्गुनी योनिदेवता, शाब्दिकास्तु पूर्वफल्गुन्यौ पूर्वफल्गुन्य इति मन्यन्ते, 'फल्गुनी प्रोष्ठपदस्य भे' (२-२-१२३) इति द्वित्वस्य वा बहुत्वविधानात् , तथाच तत्सूत्र अस्मदो द्वयोश्चेति द्वित्वमनुवर्त्तते, फल्गुनीमोष्ठपदानाञ्च नक्षत्रे द्वयोरनुकर्षणार्थः, फल्गुन्योईयोः प्रोष्ठपदयोश्च योनक्षत्रे बहुवचनमन्यतरस्यां भवति, कदा 'पूर्व फल्गुन्यौ' कदा 'पूर्वाः फल्गुन्यः' कदा 'पूर्व प्रोष्ठपदे' कदा 'पूर्वाः प्रोष्ठपदा" इति, “यत्तु कश्चिद्बहुवचनं बहुकल्याणके"त्यादि तदप्यनवबोधाविर्भावकं, "बहुवचनं बहुकल्याणकापेक्षं” इदमेव घटते, द्वित्वे बहुत्वमस्तीति तव्य

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74