Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
दिनकृत्यपकरणे प्रोक्तं-"काऊण य सामाइय, इरियं पडिक्कमिय गमणमालोए । वंदित्तु सरिमाई, सज्झायावस्सयं कुणइ ॥३०॥" अत्रापि सामायिककरणादन्वेवेर्याप्रतिक्रमणं दर्शितं, तदेवं नभसि स्फटिते कियन्ति थिग्गलानि दास्यसि ?, विशेषार्थिना वस्मद्गुरुश्रीजयसोममहोपाध्यायविरचितस्वोपज्ञेर्यापत्रिंशिका विलोकनीया, तत्राक्षेपपरिहारौ निस्तुषतया प्रतिपादितौ स्तः, तवाऽत्र भ्रान्तिध्वान्तपदं श्रीमहानिशीथसिद्धान्त एव, तथाहि-"अपडिकताए ईरियावहियाए न कप्पइ चेव काउं किंचि वि, चियवंदणसज्झायज्झाणाइअं फलासायमभिकंखुगाणं" इत्यादि, "ईर्यापथिकायामप्रतिक्रान्तायां न कल्पत एव किश्चिच्चै यवन्दना स्वाध्यायध्यानादि" इत्यागमवाक्येनास्माभिरेवमेवावधारित-यच्चैत्यवन्दनकादिवत् किञ्चिच्छब्दसूचितानि सर्वाण्यपि धर्मकृत्यानि ईर्यापथिकाऽऽदिकान्येव, तेन सामायिकमपि तदादिकमिति तवाभिप्रायः, परमसत्मायः, कथं १, “अपडिकताए इरियावहियाए” इत्यादिसामान्यसूत्रं विशेषसूत्रमपेक्ष्य प्रवर्त्तते, यत्र विशेषविषयता न भवति तत्र सामान्यसूत्रप्रवृत्तियंत्र पुनर्विशेषविषयता तत्र सामान्य न प्रवर्त्तते, यथा शब्दानुशासने “कर्मण्यण् (पा० ३-२-२)" इति सामान्य सूत्रं त्रिविधमपि कर्म यत्र भवति तत्र प्रवर्त्तते, यथा-कुम्भकारः शरलावः चर्चापारः, यथाऽत्राण् तथा 'गोदः कम्बलद' इत्यत्राप्यण प्राप्नोति, उपपदे कर्मणः सद्भावात् , तत्मतिषेधस्तु "आतोऽनुपसर्गे कः (पा०३-२-२)" इति सूत्रेण, तथाऽत्रापि, यहा साक्षाच्छिष्टेन लैङ्गिकस्य बाधः, यथा “अनचि च (पा०८-४-४७)" इति सूत्रेण यरन्तर्भावाद्रकारस्यानुमानिके द्वित्वे प्राप्ते "अचोरहाभ्यां द्वे (पा. ८-४-४६)" इति सूत्रेण निमित्तत्वेन कार्यिखस्य बाधा, यथा वा यतिसामायिकसूत्रे सर्वसावद्ययोगव्यापारनिषेधरूपसामान्यसूत्रस्य "एगं पायं जले किच्चा एगं पाय थले किच्चा" इत्यादिसूत्रं विशेषतः प्रतिपादनाद्वाधकं भवति, तथाऽत्रापि सामायिके “पच्छा ईरियावहियाए पडिक्कमइ” इत्यादिसूत्रेण साक्षाच्छिष्टेन "अपडिताए ईरियावहियाए" इति

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74