Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 11
________________ व्याख्या- 'पर्व दिवसे' अष्टमी चतुदशीपूर्णिमाऽमावास्यापर्युषणादिपुण्यवासरे तत्सामायिकं 'कृत्यं' कार्य, कीदृक् १, समन्विर्त, केन ? पौषधेन, पौषधसामग्रभावेऽपर्व दिवसेऽपि केवलस्यास्य सामायिकस्य कार्यतया प्रतिपादनात् पौषधान्वितं सामायिकं पर्व दिवसेष्वेव कार्यमिति सिद्धं तदुक्तं श्रीसूत्रकृताङ्गे तद्वृत्तौ च (पत्र ४०८ ) - 'चाउद्दसमुद्दिपुण्णमासीणोतु पडिपुण्णं पोस सम्म अणुालेमाणे x x विहरनि टीका- चतुर्दश्यष्टम्यादितिथिषु, उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पूर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः " इति श्रीजिनपतिमूरिपट्टलक्ष्मी तिलक श्री जिनेश्वरमूरिविरचिते श्रावकधर्मप्रकरणे तच्छिष्यलक्ष्मीतिलकोपाध्यायकृतवृत्तौ । तथा तवार्थवृत्तौ - "दिग्देश । नर्थदण्डविरतिसामायिक पौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभाग त सम्पन्न (अ० ७ मूलसूत्र १६, टीका) कृतद्वन्द्वा दिगादयस्तैः 'सम्पन्नः' समृद्धः-संयुक्तः, च शब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाढयपादानाय शीलोपदेशः, शीलञ्च गुणशिक्षाव्रतमयं तत्र गुणव्रतानि त्रीणी - दिगुपभोगपरिभोगपरिमाणानर्थदण्ड विरतिसंज्ञान्यणुव्रतानां भावनाभूतानि यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावज्जीवं भावनीयानि । शिक्षापदव्रतानि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्येत इति यावत्, पौषवो पवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेपौ, न प्रतिदिवसाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेने " तथा श्रावकमइतिवृत्तौ हरिभद्रसूरिकृतायां (१८२ तमे पृष्ठे ) तथा ( पञ्चाशकवृत्तौ ३० तमे पत्रे ) “तत्र प्रतिदिवसानुष्ठेये द्वे सामायिक देशावकाशिके पुनः पुनरुचार्यते इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति" तथा पञ्चाशकसूत्र" एत्थ उ सावगधम्मे, पायमणुब्वयगुणन्त्रयाई च। आवकहियाई सिरुखा-बयाई पुण इतराई ति |३९| व्याख्या- 'एत्थ' ति पुत्र

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74