Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 19
________________ KO+000 कटीपट्टकस्यान्यथाकरणात् कस्मात् ?, दुःषमानुभावात् " । तरुणप्रभसूरिभिरप्ययमेवार्थः समर्थित:- " सम्मति प्रमादबाहुल्यात् वामकूपैरेण चोलपट्टकधरणं न जायते तेन दवरकादिना बद्ध्वा विभ्रति चोलपट्टकं साधवः १” तथा “आर्यिकाणां - साध्वीनां पञ्चविंशत्युपकरणान्यासन् सम्प्रति तानि व्युच्छिन्नानि २” एतद्द्वयं भवताऽपि स्वीकृतं तृतीयपदे तव विपदुद्भवो बभूव, 'श्रावकधर्मः” एकादशप्रतिमावहनरूपो धर्मोऽप्युच्छिन्नः अत्र किमसङ्गतं ? न हि यः सम्यक्त्वमूलद्वादशवतीरूपो धर्मस्तस्य व्यवच्छेदो घटते, तद्विच्छेदस्त्वनगारधर्मेणैव सहभावी, तस्मादयमेत्र युज्यते । तथा पञ्चाशकवृत्तौ (१७६ पत्रे ) श्रीमदभयदेवसूरिभिरस्मद्गुरुभिरप्युक्तं- " जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा असुहो कालो, दुरणुचरो संजमो एत्थ । ४९ ।” इति दशमे श्रावकप्रतिमापश्ञ्चाशके, " व्याख्या - यद्यपि क्रमान्तरेणापि प्रव्रज्या स्यात्तथापि युक्तः सङ्गतः, पुनरिति विशेषणार्थः, एषोऽनन्तरोक्तः प्रतिमाऽनुष्ठानादिः क्रमःप्रव्रज्याप्रतिपत्तौ परिपाटिः, कथमित्याह-ओघेन - सामान्येन, न तु सर्वथैव तं विनाऽपि बहूनां प्रव्रज्याश्रवणात् । कालापेक्षया विशेषमाहसाम्प्रतं वर्तमानकाले, विशेषेण विशेषतो युक्त एषः क्रमः, कुत एतदेवमित्याह यस्मात्कारणात्, अशुभोऽशुभानुभावः, कालो दुःषमालक्षणो वर्त्तते, ततश्च दुरनुचरो दुःखासेव्यः, संयमः संयतत्वं, अत्राशुभकाले, अतः प्रवजितुकामेन प्रतिमाऽभ्यासो विधेय इति भावः, इति गाथार्थ: " अत्राप्यभ्यास एवोक्तो, न तद्वहनं, उच्छेदेऽप्यभ्यासो घटत एव यथा जिनकल्पोच्छेदेऽप्यार्यमहागिरिणा तदभ्यासो विदध इति, तथा तिलकाचार्यैरपि स्वसमाचारीग्रन्थे “ चतस्रः सम्प्रति प्रतिमाः श्रावकैरुह्यन्ते, शेषास्त्वष्टम्यादिषु सकलरात्रकायोत्सर्गकरणाशक्तेनचरिताः " एभिरप्यग्रेन प्रतिमानामवहनं उक्तं, तथा श्री जिनपतिमूरिभिरूचे "संपइ काले सावयपडिमाओ न वहिज्जंति" श्रीजिनदत्तसूरिभिरप्युक्तमुत्सूत्रोहन कुलके "पुरिसित्थीओ पडिमा वति तत्थाइमा चउरो" इदमप्युत्सूत्रं शास्त्रानुसारत एव तैः प्रत्यपादीति । १ । ७ । ५ ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74