Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 9
________________ दिसुगतौ धानाच धर्म इत्येवंरूपत्वेन कीर्यदे-शब्द्यते सकलाकल्पितभावकलापाऽऽकल नकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात् , यथा नवलोदक पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणवीजलाभफला जीवशुद्धिरेव धर्मः॥३॥ अथामुमेव धर्म भेदतः प्रभेदतश्च बिभणिषुराह सोऽयमनुष्ठातृभेदात् द्विविधो-गृहस्थधर्मो यतिधमश्चेति ॥१॥ 'सः' यः पूर्व प्रववतुमिष्टः 'अयं' साक्षादेव हृदि विवर्तमानतया प्रत्यक्षः 'अनुष्ठातृभेदात्' धर्मानुष्ठायकपुरुषविशेषात् 'द्विविधो' द्विपकारो धर्मः, प्रकारादेव दर्शयति-'गृह धर्मो यतिधर्मश्चेति' गृहे तिष्ठतीति गृहस्थः तस्य धर्मो नित्यनैमित्तिकानुष्ठानरूपः, य: खलु देहमात्रारामः सम्यगविद्यानौलाभेन तृष्णासरित्तरणाय योगाय सततमेव यतते स यतिः तस्य धर्म:-गुर्वन्तेवासिता सद्भक्तिबहुमानावित्यादिः वक्ष्यमाणलक्षणः॥१॥ तत्र च गृहस्थधर्मोऽपि द्विविध:-सामान्यतो विशेषतश्चेति ॥२॥ 'गृहस्थधर्मोऽपि उक्तलक्षणः, किम्युनः सामान्यतो धर्म इत्यपिशब्दार्थ, 'द्विविधो' विभेदः, दैविध्यमेव दर्शयति-सामान्यतो नाम सर्व शिष्टसाधारणानुष्ठानरूपः, 'विशेषतो' विशेषे.. सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चये इति ॥२॥ तत्राय भेदं शास्त्रकृत्स्वयमेवाध्यायपरिसमाप्ति यावद्भावयन्नाह तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतम निन्द्य विभवाद्यपेक्षया न्यायप्तोऽनुष्ठानमिति ॥३॥ 'तत्र' तयोः सामान्य विशेषरूपयोः गृहस्थधमयो वस्तुमुपक्रान्तयोर्मध्ये सामान्यतः गृहस्थधर्मोऽयम, यथा-'कुलक्रमा

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 196