Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 10
________________ प्रकरण धर्मबिन्दु गतं' पितृपितामहादिपूर्वपुरुषपरम्परासेवनाद्वारेण स्वकालं यावदायातम् , अनुष्ठानमित्युत्तरेण योगा, पुनः कीदृशं तदित्याह'अनिन्द्यं निन्द्य-तथाविधपरलोकप्रधानसाधुजनानामत्यन्तमनादरणीयतया गर्हणीयं यथा सुरासंधानादि तन्निषेधादनिन्छ, तथा 'विभवाद्यपेक्षया' विभवं-स्वकीयमूलधनरूपमादिशब्दात् कालक्षेत्रादिसहायबलं चापेक्ष्य 'न्यायतो' न्यायेनशुद्धमानतुलोचितकलाव्यवहारादिरूपेण आसेवनीयावसरचित्ताराधनादिरूपेण च 'अनुष्ठान' वाणिज्यराजसेवादिरूपं, इदमुक्तं भवति-सर्वसाधुसमतन्यायप्रधानस्य स्वविभवतृतीयभागादिना व्यवहारमारभमाणस्य राजसेवादौ च तदुचितक्रमानुरतिनः कुलक्रमायातानिन्द्यानुष्ठानस्य अत्यन्त निपुणबुद्धः अत एव सर्मापायस्थानपरिहारवतो गृहस्थस्य धर्म एव स्यात्, दीनानाथाधुपयोगयोग्यतया धर्मसाधनस्य विभास्योगजनं प्रति प्रतिवद्धचितत्वादिति । यच्चाऽऽदावेवानिन्यानुनस्य गृहस्थसंबन्धिनो धर्मतया शास्त्रकारेण निदर्शनमकारि नत् ज्ञापयति निरनुष्ठानत्य निर्वाह विच्छेदेन गृहस्थस्य सर्वशुभक्रियोपरमप्रसङ्गादधर्म एव स्यादिति, पठ्यते च-“वित्तीवोच्छेयमि य गिहिणी सोयंति सबकिरियाओ । निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥२॥ (पश्चा० १५१) [वृत्तियुच्छेदे च गृहिणः सीदन्ति सर्वाः क्रियाः। निरपेक्षस्य तु युक्तः संपूर्ण संयमश्चैव अथ कस्मात् न्यायत इत्युक्तमिति, उच्यते न्यायोपात्तं हि वित्तमुभयलोकहितायेति ॥४॥ 'न्यायोपात्तं' शुद्धव्यवहारोपार्जितं 'हि' यस्माद् ‘वित्तं' द्रव्य निर्वाहहेतुः, किमिन्याह-'उभयलोकहिताय' उभयोः-इहलोकपरलोकरूपयोः लोकयोहिताय-कल्याणाय सपद्यते ॥ ४ ॥ एतदपि कुत ? इत्याह ॥३॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 196