Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः। धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥२॥ वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं, तडर्म इति कीर्त्यते ॥३॥ 'धनदेति, धन-धान्यक्षेत्रवास्तुद्विपदचतुष्पदभेद भिन्नं हिरण्यसुवर्णमणिमौक्तिकशखशिलाप्रवालादिभेदं च धनपतिधनर्द्धिपतिस्पर्धि तीर्थोपयोगफलं ददाति-प्रयच्छति यः सः तथा, 'धनार्थिनां' धनमन्तरेण गृहिणो न किञ्चिदितिबुदया धनविषयातिरेकस्पृहावतां 'प्रोक्तः शास्त्रेषु निरूपिता, धर्म एवेत्युत्तरेण योगा, तथा 'कामिनां' कामाभिलाषवतां प्राणिनां, काम्यन्ते इति कामाः-मनोहरा अक्लिष्टप्रकृतयः परमाहाददायिनः परिणाममुन्दराः शब्दरूपरसगन्धस्पर्शलक्षणा इन्द्रियार्थाः ततः सर्वे च ते कामाश्च सर्वकामाः तान् ददातीति सर्वकामदः, इत्यमभ्युदयफलतया धर्ममभिधाय निःश्रेयसफलत्वेनाह-धर्म एव नापरं किश्चिन् अपवृज्यन्ते-उच्छिद्यन्ते जातिजरामरणादयो दोषा अस्मिन्नित्यपवर्ग:-मोक्षः तस्य 'पारम्पर्येण' अ. विरतसम्यग्दृष्टिगुणस्थानाधारोहणलक्षणेन सुदेवत्वमनुष्यत्वादिस्वरूपेण वा 'साधकः' मूत्रपिंड इव पटस्य स्वयं परिणामिकारणभावमुपगम्य निर्वर्तक इति ॥२॥ _ 'वचने 'ति, उच्यते इति वचनं-आगमः तस्मात् वचनमनुसृत्येत्यर्थः, 'य'दित्यद्याप्यनिरूपितविशेषानुष्ठान, इहलोकपरलोकावपेक्ष्य हेयोपादेययोरथयोरिदेव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति, तत् धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशाद्वचनादित्याह-'अविरुद्वात् ' निर्देक्ष्यमाणलक्षणेषु कपच्छेदतापेषु अविघटमानात् , तच्चाविरुद्ध वचनं जिनप्रणीतमेव, निमित्तशुद्धः, वचनस्य हि वक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेषमोहमारतन्यमशुद्धिः, तेभ्यो

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 196