Book Title: Dharmbindu Prakaranam Author(s): Munichandracharya Publisher: Agamoday Samiti View full book textPage 6
________________ TERTULI बमबिन्दु खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोका जगज्जन्तुचितसंतोषकारण पुरन्दरादिसुन्दरसुरसमूहाहियमाणमातिहार्यपूजोपचारः तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसंदोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानहन्निति, स परमः, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदनेन परमात्मानं प्रणम्य, किमित्याह-समुद्धत्य' सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य-पृथक्कृत्य 'श्रुतार्णवात्' अनेकभङ्गभङ्गुरावर्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमस मुद्रात् 'धर्मबिन्दु' वक्ष्यमाणलक्षणं धर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामक प्रकरणं 'प्रवक्ष्यामि' भणिष्यामि, कमिव कस्मात्समुद्धृत्येत्याह-'तोयबिन्दुमिव ' जलावयववत् 'उद्धेः 'दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति बिन्दूपमेयतास्य पकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापनन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह 'प्रणम्य परमात्मान'मित्यनेन विघ्नापोहहेतुः शास्त्रमूलं मङ्गलमुक्तं, परमात्मप्रणामस्य सकलाकुशलकलापसमृलोन्मूलकत्वेन भावमङ्गलवात, 'धर्मबिन्दु प्रवक्ष्यामी'त्यनेन तु अभिधेयं, धर्मलेशस्यात्राभिधास्यमानत्वात् , अभिधानाभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मविन्दुरिहाभिधेयः इदं च | प्रकरणं वचनरूपापन्नमभिधानमिति, प्रयोजनं च प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणार्याधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्ठानस्य निर्वाणैकफलत्वादिति ॥१॥ धर्मबिन्दु प्रवक्ष्यामीत्युक्तम्, अथ धर्मस्यैव हेतुं स्वरूपं फलं च विभणिषुः 'फलपधानाः प्रारम्भा मतिमतां भवन्तीति' फलमेवादौ तदनु हेतुशुद्धिभणनद्वारेण धर्मस्वरूपं चोपदर्शयन्निदं श्लोकद्वयमाह ॥१॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 196