Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 20
________________ खेतं गओ अडवि इको संचिठए तहिं चेव । तित्थयरो पुण पियरो खेतं पुण भावओ सिद्धिति ॥ एतासां गाथानामयं संक्षेपार्थः-अह छंदस्सत्ति । यथाछन्दस्य प्ररूपणा उत्सूत्रा-सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या । तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया ॥१॥ . तत्र या चरणे चरगविषया सा इयं वक्ष्यमाणा भवति, तामेवाह-पडिलेहणित्ति । मुखपोतिका मुखवत्रिका सैव प्रतिलेखिनी पात्रप्रत्युपेक्षिका पात्रके सरिका, कि द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभय प्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा रयहरणणिसिज्जत्ति। किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्याऽस्तु । पायमत्तएत्ति । यदेव पात्रं तदेव मात्रक क्रियताम् , मात्रकं वा पात्रं क्रियताम् , किं इयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः। भणितं च--" यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्" इति । तथा पट्टएत्ति । य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियताम् , किं पृथगुत्तरपट्टग्रहेण ? । तथा पडलाई घोलत्ति । पटलानि किमिति पृथग ध्रियेते (यन्ते ?), चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उण्णादसि. यत्ति । रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् , ता गर्णमयीभ्यो मुदुतरा भवन्ति । पडिलेहणापोत्तंति । प्रतिलेखनावेलायामकं पोतं प्रस्तार्य तस्योपरिसमस्त वस्त्रमत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयादहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥२॥ दंतछिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तै छेत्तव्याः न नखरदनेन । नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति। पात्रमलिप्तं कर्तव्यम् , लेपे बहु दोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियठियत्ति । हारेतप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमजणा यछन्नस्सत्ति । यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरमच्छन्ने क्रियताम् , दयापरि क्षेत्रं गतोऽटवीमेकः सतिष्ठते तत्रैव। ... तीर्थकरः पुनः पिता क्षेत्र पुनः भावतः सिद्धिरिति ॥ .. ..

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 278