Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 407 // नि०- अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न- को हेऊ?। अगुणत्ता इइ हेऊ-को दिट्ठतो? सुवण्णमिव // 350 // दशममध्ययनं अध्ययनगुणी प्रक्रान्ताध्ययनोक्तगुणवान् भिक्षुः भावसाधुर्भवतीति, तत्स्वरूपमेतत्, न शेषः तद्गुणरहित इति नः प्रतिज्ञा सभिक्षुः, नियुक्तिः 350 अस्माकं पक्षः, को हेतुः? कोऽत्र पक्षधर्म इत्याशङ्कयाह- अगुणत्वादिति हेतुः अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वंतस्मादित्ययं लिङ्गद्वारमहेतुः,अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, को दृष्टान्तः? किं पुनरत्र निदर्शनमित्याशङ्कयाह- सुवर्णमिव यथा / वयवद्वारंच। सुवर्ण स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः // 350 // सुवर्णगुणानाह नियुक्तिः 351 अवयवद्वारेनि०-विसघाइरसायण मंगलत्थ विणिए पयाहिणावत्ते। गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ॥ 351 // सुवर्णगुणाविषघाति विषघातनसमर्थं रसायनं वयस्तम्भनकर्तृ मङ्गलार्थमङ्गलप्रयोजनं विनीतं यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त उपनयश्च। नियुक्तिः तप्यमानं प्रादक्षिण्येनावर्त्तते गुरु सारोपेतं अदाह्यं नाग्निना दह्यते अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः सुवर्णे | 352-353 सुवर्णविषया गुणा भणितास्तत्स्वरूपज्ञैरिति गाथार्थः / / 351 // उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह नि०- चउकारणपरिसुद्धं कसछेअणतावतालणाए।जंतं विसघाइरसायणाइगुणसंजुअंहोइ॥३५२॥ चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह- कषच्छेदतापताडनया चे ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः / / 352 // यच्चैवंभूतं नि०-तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू॥३५३॥ तद् अनन्तरोदितं कृत्स्नगुणोपेतं संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तम् , न शेष कषाद्यशुद्धम्, युक्ति रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति- यथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण रजोहरणादिसंधारणादिना उपनयः। // 40

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466