Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 444
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 420 // कालाख्यायां कालदोषादेव दुःखेन- कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, प्रथमा नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षित रतिवाक्य चूलिका, व्यमिति प्रथमं स्थानं 1 / तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्तते, सन्तोऽपि लघवः तुच्छाः प्रकृत्यैव सूत्रम् तुषमुष्टिवदसाराः इत्वरा अल्पकालाः गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न (श्लोकजातिः), उत्प्रव्रजितुदेवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानं 2 / तथा भूयश्च स्वातिबहुला मनुष्याः कामस्याष्टादुष्षमायामिति वर्त्तत एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचिद्विश्रम्भहेतवोऽमी, तद्रहितानां च दशस्थानार्थकीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं 3 / तथा इदं व्यतिकरः। च मे दुःखं न चिरकालोपस्थायि भविष्यति इदं च अनुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषहजनितं नचिरकालमुपस्थातुंशीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं 4 / तथा ओमजणपुरस्कार मिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽअभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियमत एव इहैवेदमधर्मफलम्, अतः किंगृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् 5 / एवं सर्वत्र क्रिया योजनीया, तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयंच श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानं 6 / तथा अधरगतिवासोपसंपत् अधो(धर)गति:- नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, // 420 //

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466