Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 445
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 421 // सूत्रम् एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्- सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं 7 / तथा प्रथमा दुर्लभः खलु भो! गृहिणां धर्म इति प्रमादबहुलत्वाहुर्लभ एव भो इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामि रतिवाक्य चूलिका, त्याह- गृहपाशमध्ये वसता मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयोगृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमित्यष्टमं स्थानं 8 / तथा आतङ्कस्तस्य वधाय भवति आतङ्कः सद्योघाती विषूचिकादिरोगः तस्य : | (श्लोकजातिः), उत्प्रव्रजितुगृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं 9 / तथा कामस्याष्टासंकल्पस्तस्य वधाय भवति संकल्प इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, तस्य गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन दशस्थानार्थ व्यतिकरः। ग्रहादिप्राप्तेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं 10 / तथा सोपक्लेशो गृहिवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासो- गृहाश्रमः, उपक्लेशा:- कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं 11 / तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं 12 / तथा बन्धो गृहवासः सदा तद्धत्वनुष्ठानात्, कोशकारकीटवदिति, एतच्चिन्तनीयमिति त्रयोदशं स्थानं 13 / तथा मोक्षः पर्यायः अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानं 14 / अत एव सावद्यो गृहवास इति सावद्यः- सपापः प्राणातिपातमृषावादादिप्रवृत्तेरेतच्चिन्तनीयमिति पञ्चदशंस्थानं 15 / एवं अनवद्यः पर्याय इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिति षोडशंस्थानं 16 / तथा बहुसाधारणा गृहिणांकामभोगा इति बहुसाधारणा:- चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, एतच्चिन्तनीयमिति सप्तदशं स्थानं 17 / तथा प्रत्येकं पुण्यपाप मिति मातापितृ // 421 //

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466