Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 456
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् द्वितीया विविक्तचर्या, चूलिका, नियुक्तिः 368-369 विहारचर्योपदेशाधिकारश्च। // 432 // चर्यामाह- अनियतवासो मासकल्पादिना अनिकेतवासो वा अगृहे- उद्यानादौ वासः, तथा समुदानचर्या अनेकत्र याचितभिक्षाचरणं अज्ञातोञ्छं विशुद्धोपकरणग्रहणविषयम्, पइरिक्कया य विजनैकान्तसेविताच अल्पोपधित्वं अनुल्बणयुक्तस्तोकोपधिसेवित्वं कलहविवर्जना च तथा तद्वासिना भण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथनादिना परिवर्जनमित्यर्थः। विहारचर्या विहरणस्थितिर्विहरणमर्यादा इयं' एवंभूता ऋषीणांसाधूनां प्रशस्ता- व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः॥५॥ इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह नि०- दव्वे सरीरभविओभावेण य संजओ इहं तस्स। उग्गहिआ पग्गहिआ विहारचरिआ मुणेअव्वा // 368 // साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, सच द्रव्यतो भावतश्च, तत्र द्रव्य इति द्वारपरामर्शः, शरीरभव्य इति मध्यमभेदत्वादागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तद्रव्यसाधूपलक्षणमेतत्, भावेन चे ति द्वारपरामर्शः, स एव संयत इति संयतगुणसंवेदको भावसाधुः / इह अध्ययने तस्य भावसाधोः अवगृहीता उद्यानारामादिनिवासाद्यनियता प्रगृहीता तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या मन्तव्या' बोद्धव्येति गाथार्थः // ३६८॥सा चेयमिति सूत्रस्पर्शेनाह नि०- अणिएअंपरिक्वं अण्णायं सामुआणिअंउंछ / अप्पोवही अकलहो विहारचरिआइसिपसत्था॥३६९॥ सूत्रवदवसेया / अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवष्टिव्य इति। विहारचर्या ऋषीणां प्रशस्ते त्युक्तं तद्विशेषोपदर्शनायाह-आकीर्णावमानविवर्जना च विहारचर्या ऋषीणांप्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि अवमानंस्वपक्षपरपक्षप्राभूत्यजंलोकाबहुमानादि, अस्य विवर्जना, आकीर्णे हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादि००कथादिना परिव० (प्र०)। / // 432 //

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466