Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 438 // ॥अथ श्रीहरिभद्रसूरिविरचितटीकोपसंहारः। नियुक्तिः 370-371 यंप्रतीत्य कृतं तद्वक्तव्यताशेषमाह वक्तव्यताशेषः नि०- छहिं मासेहिं अहीअंअज्झयणमिणं तु अज्जमणगेणं / छम्मासा परिआओ अह कालगओसमाहीए।। 370 / / (टीको पसंहार)। षड्भिर्मासैःअधीतं पठितं अध्ययनमिदं तु अधीयत इत्यध्ययनं- इदमेव दशवैकालिकाख्यं शास्त्रम्, येनाधीतमित्याहआर्यमणकेन- भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ मणकश्चेति विग्रहस्तेन, षण्मासाः पर्याय इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्, अत एवाह-अथ कालगतः समाधिने ति अथ उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत- आगमोक्तेन विधिना मृतः समाधिना- शुभलेश्याध्यानयोगेनेति गाथार्थः // 370 // अत्र चैवं वृद्धवादः- यथा तेनैतावता श्रुतेनाराधितं एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति॥ नि०- आणंदअंसुपायंकासी सिजंभवा तहिं थेरा / जसभद्दस्स य पुच्छा कहणा अविआलणा संघे॥३७१॥ आनन्दाश्रुपातं अहो आराधितमनेनेति हर्षाश्रुमोक्षणं अकार्षः कृतवन्त शय्यम्भवाः प्राग्व्यावर्णितस्वरूपाः तत्र तस्मिन् कालगते स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च- शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन | किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा- भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः- संसारस्नेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुतापश्च यशोभद्रादीनां- अहो गुराविव गुरुपुत्रके वर्तितव्यमिति न कृतमिदमस्माभिरिति, एवंभूतप्रतिबन्धदोषपरिहारार्थं न मया कथितं नात्र भवतांदोष इति गुरुपरिसंस्थापनंच। विचारणा संघ इति शय्यम्भवेनाल्पा // 438 //

Page Navigation
1 ... 460 461 462 463 464 465 466