Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 424 // प्रथमा रतिवाक्य चूलिका, सूत्रम् 1-8 सीदतः स्थिरीकरणार्थमुत्प्रिवजितस्य परितापना निदर्शनम्। किमर्थमित्याह-भोगकारणात् शब्दादिभोगनिमित्तं स धर्मत्यागी तत्र तेषु भोगेषु मूर्च्छितो गृद्धो बालः मन्दः आयतिं आगामिकालं नावबुद्ध्यते न सम्यगवगच्छतीति सूत्रार्थः॥१॥ एतदेव दर्शयति- यदा अवधावितः अपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो वे ति देवराज इव पतितःक्ष्मां मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः, क्ष्मा- भूमिः / सर्वधर्मपरिभ्रष्टः सर्वधर्मेभ्यः-क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः- सर्वतश्च्युतः, स पतितो भूत्वा पश्चात्मनागमोहावसाने परितप्यते किमिदमकार्यं मयाऽनुष्ठितमित्यनुतापंकरोतीति सूत्रार्थः॥२॥यदान वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवत्युनिष्क्रान्तः सन्नवन्द्यः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः॥३॥ तथा यदा च पूज्यो भवति- वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः॥ 4 // यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव कर्बटे महाक्षुद्रसंनिवेशे क्षिप्तः सन्, स पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः॥५॥ यदाच स्थविरो भवति स त्यक्तसंयमो वय:परिणामेन, एतद्विशेषप्रतिपादनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं बडिशं गिलित्वा अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः॥६॥ एतदेव स्पष्टयति- यदा च कुकुटुम्बस्य कुत्सितकुटुम्बस्य कुतप्तिभिः- कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?- यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते // 7 // एतदेव स्पष्टयति- पुत्रदारपरिकीर्णो विषयसेवनात्पुत्रकलत्रादिभिः .42

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466