Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 441
________________ प्रथमा श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 417 // रतिवाक्य चूलिका, नियुक्तिः 362-363 द्रव्यभावरतिः। नियुक्तिः३६४ रत्यभिधानोपदर्शनम्। भाव इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा मन्तव्या विज्ञेया क्षायोपशमिकत्वाच्छुतस्येति गाथार्थः॥ 361 // तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते- तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह नि०-दव्वे दुहा उ कम्मे नोकम्मरई असद्ददव्वाई। भावरई तस्सेव उ उदए एमेव अरईवि॥३६२॥ द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा- कर्मद्रव्यरति!कर्मद्रव्यरतिश्च, तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि- रतिकारणानि भावरतिः तस्यैव तु रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति #गाथार्थः // 362 / / उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह नि०- वक्कंतु पुव्वभणिअंधम्मे रइकारगाणि वक्काणि। जेणमिमीए तेणं रइवक्केसा हवइचूडा॥३६३॥ B वाक्यं तु पूर्वभणितं-वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं धर्मे चारित्ररूपे रतिकारकाणि रतिजनकानि तानि च वाक्यानि येन कारणेन अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः // 363 // इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् / आह च नि०-जह नाम आउरस्सिह सीवणछेज्जेसुकीरमाणेसु / जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी उ / / 364 // यथा नामेति प्रसिद्धमेतत् आतुरस्य शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य इह लोके सीवनच्छेदेषु सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह- यन्त्रणं गलयन्त्रादिना अपथ्यकुत्सा अपथ्यप्रतिषेधः आमदोषविरतिः अजीर्णदोषनिवृत्तिः // 417 //

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466