Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाह
नामंठवणसयारो दुव्वे भावे अ होइ नायव्यो । दुव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ ३२८ ॥ नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीव: 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह
निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ॥ ३२९ ॥ निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः। तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देशप्रसंशायामिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति
जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिणेहिं । तेसिं समावणंमिति (मी) जो भिक्खू भन्नइ स भिक्खू ॥ ३३० ॥ ये 'भावाः' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिताः'।
दश०४४
Jain Education in
For Private Personal Use Only
TIMainelibrary.org

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574