Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 539
________________ Jain Education Int त्रार्थः ॥ १८ ॥ मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः अनेन कुलमदादिपरिग्रहः, अत एवाह-मदान् सर्वान् कुलादिविषयानपि 'परिवर्ज्य' परित्यज्य 'धर्मध्यानरतो' यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः ॥ १९ ॥ किंच - 'प्रवेदयति' कथयति 'आर्यपदं' शुद्धधर्मपदं परोपकाराय 'महामुनिः' शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः किमित्येतदेवमित्यत आह- धर्मे स्थितः स्थापयति परमपि - श्रोतारं तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम्' आरम्भादि कुशीलचेष्ठितं, तथा 'न चापि हास्यकुहकों' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह - 'तं देहवास' मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासम् अशुचिं शुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धत्यागेन, क इत्याह- 'नित्यहिते' मोक्षसाधने सम्यग्दर्शनादौ 'स्थितात्मा' अत्यन्त सुस्थितः, स चैवंभूतछित्त्वा 'जातिमरणस्य' संसारस्य 'बन्धन' कारणम् 'उपैति' सामीप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमां' पुनर्जन्मादिरहितामित्यर्थः, गतिमिति - सिद्धिगतिं ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥ उक्तोऽनुगमो, नयाः पूर्ववत्, इति व्याख्यातं सभिक्ष्वध्ययनम् ॥ १० ॥ इति श्रीहरिभद्रसूरिविरचितायां श्रीदशवैकालिकबृहद्वृत्तौ दशममध्ययनम् ॥ १० ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574