Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥
अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणेअव्वा ॥ ३६१ ॥
'अतिरिक्ता' उचितकालात् समधिका 'अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' वि | ज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह—
दव्वे दुहा उ कम्मे नोकम्मरई अ सद्ददव्वाई । भावरई तस्सेव उ उदए एमेव अरईवि ॥ ३६२ ॥
द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा - कर्मद्रव्यरति नौकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि-रतिकारणानि । भावरतिः 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यम|तिदिशन्नाह
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574