Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवैका ० हारि-वृत्तिः
॥ २७७ ॥
Jain Education Int
इच्चैव संपस्सि बुद्धिमं नरो, आयं उवायं विविहं विआणिआ । कारण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्टिजासि ॥ १८ ॥ त्ति बेमि ॥ रइवक्का पढमा चूला समत्ता ॥ १ ॥
यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह - 'अस्य ताव' दित्यात्मन एवं निर्देश:, 'नारकस्य जन्तोः' नरकमनुप्राप्तस्येत्यर्थः 'दुःखोपनीतस्य' सामीप्येन प्राप्तदुःखस्य 'क्लेशवृत्तेः' एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोषरहितम् ?, एतत्क्षीयत एव, एतचिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः ॥ १५ ॥ विशेषेणैतदेवाह - न मम 'चिरं' प्रभूतकालं 'दुःखमिदं' संयमारतिलक्षणं भविष्यति, किमित्यत आह- 'अशाश्वती' प्रायो यौवनकालावस्थायिनी 'भोगपिपासा' विषयतृष्णा 'जन्तो:' प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह - 'न चेच्छरीरेणाने नापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम्?, यतोऽपयास्यति 'जीवितपर्ययेण' जीवितस्यापगमेन मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः ॥ १६ ॥ अस्यैव फलमाह - 'तस्येति साधोः 'एवम्' उक्तेन, 'आत्मा तु' तुशब्दस्यैवकारार्थत्वात् आत्मैव |भवेत् 'निश्चितो' दृढः यः स त्यजेद्देहं कचिद्विन उपस्थिते, 'न तु धर्मशासनं' न पुनर्धर्माज्ञामिति, तं 'तादृशं
For Private & Personal Use Only
१ रतिवा
वयचूला०
॥ २७७ ॥
jainelibrary.org

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574