Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 567
________________ दश० ४८ Jain Education In x-xx xx xxUG | चैवेह च हन्यते जनः ॥ २ ॥ तथा - परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंघन्ते, सोऽ| न्यस्मै स्यात्कथं हितः ? ॥ ३ ॥ तथा ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥ ४ ॥ इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ १० ॥ विहारकालमानमाह - 'संवत्सरं वापि ' अत्र संवत्सर| शब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि परं प्रमाणं - वर्षाऋतुबद्धयो रुत्कृष्टमेकत्र निवासकालमानमेतत्, 'द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्ष वर्षासु | चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत् यत्रको वर्षाकल्पो मासकल्पश्च कृतः, अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किं बहुना ?, सर्वत्रैव 'सूत्रस्य मार्गेण | चरेद्भिक्षुः' आगमादेशेन वर्त्ततेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात् अपि तु सूत्रस्य 'अर्थ:' | पूर्वापराविरोधितन्नयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा 'आज्ञापयति' नियुङ्क्ते तथा वर्त्तेत, नान्यथा, यथेापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादिपरिवर्त्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्त्तेत न तु तथाविधलोक हेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ ११ ॥ एवं विविक्तचर्यावतोऽसीदनगुणो| पायमाह - यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्या | आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह - 'किं मे कृत' मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574