Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नयाधिकार:
दशवैका
लानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीअत्थो अ विहारो बिइओ गीअस्थमीसिओ भहारि-वृत्तिः ।
णिओ। एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥१॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् , 'इति जो उवएसो सो णओ णामति इति एवमुक्तेन न्यायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिनध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि गिबिहअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामु|मिकफलप्राप्त्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनापि क्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्ये
२८५॥
Jain Education Inc
h
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 570 571 572 573 574