Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 546
________________ दशवैका० स्थानां 'कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः|१रतिवाहारि-वृत्तिः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीय स्थानम् २ । तथा 'भूयश्च स्वातिबहुला मनुष्याः' दुषमाया- क्यचूला० मिति वर्तत एव, पुनश्च 'खातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्भहेतवोऽमी, ॥२७२॥ तद्रहितानां च कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीय स्थान ३ तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दुःखं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानं ४। तथा 'ओमजणपुरस्कार मिति न्यूनजनपूजा, प्रवजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि खव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तु: खरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् ५। एवं सर्वत्र क्रिया योजनीया, तथा 'वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम् ६॥ तथा 'अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म Jain Education For Private Personel Use Only

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574