________________
दशवैका० स्थानां 'कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः|१रतिवाहारि-वृत्तिः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीय स्थानम् २ । तथा 'भूयश्च स्वातिबहुला मनुष्याः' दुषमाया- क्यचूला०
मिति वर्तत एव, पुनश्च 'खातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्भहेतवोऽमी, ॥२७२॥
तद्रहितानां च कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीय स्थान ३ तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दुःखं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानं ४। तथा 'ओमजणपुरस्कार मिति न्यूनजनपूजा, प्रवजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि खव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तु: खरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् ५। एवं सर्वत्र क्रिया योजनीया, तथा 'वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम् ६॥ तथा 'अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म
Jain Education
For Private Personel Use Only