________________
SACCMSESAMACHAR
इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याह-'उत्पन्नदुःखेन' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदःखेन 'संयमें व्यावर्णितखरूपे 'अरतिसमापन्नचित्तेन' उद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम्-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रवजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्पत्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यटादश स्थानानि 'सम्यम्' भावसारं 'सुष्टु प्रेक्षितव्यानि सुष्टालोचनीयानि भवन्तीति योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति । तान्येव विशेष्यन्ते-हयरश्मिगजाङ्कुशपोतपताकाभूतानि' अश्वखलिनगजाकैशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथेत्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्पजीविन' इति हंभो-शिष्यामन्त्रणे दुष्षमायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमणेति संप्रत्युपेक्षितव्यमिति प्रथम स्थानम् १। तथा लघव इत्वरा गृहिणां कामभोगा', दुष्षमायामिति वर्तते, सन्तोऽपि 'लघवः' तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः 'इत्वरा' अल्पकालाः 'गृहिणां' गृह
For Private 8 Personal Use Only
Grjainelibrary.org
Join Education in