SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७ । तथा 'दुर्लभः खलु भो ! गृहिणां धर्म' इति प्रमादबहुलत्वाद्दुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह - 'गृहपाशमध्ये वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमित्यष्टमं स्थानं ८ । तथा 'आतङ्कस्तस्य वधाय भवति' 'आतङ्कः' सद्योघाती विपूचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा 'संकल्पस्तस्य वधाय भ वति' 'संकल्प' इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० । तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो गृहिवासो - गृहाश्रमः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशः पर्याय' इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा 'बन्धो गृहवासः' सदा तद्धेत्वनुष्ठानात्, कोशकारकीटवदिति, एतचि - न्तनीयमिति त्रयोदशं स्थानं १३ । तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४ । अत एव 'सावद्यो गृहवास' इति सावध:- सपापः प्राणातिपातमृषावादादि For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy