SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥ अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणेअव्वा ॥ ३६१ ॥ 'अतिरिक्ता' उचितकालात् समधिका 'अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' वि | ज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह— दव्वे दुहा उ कम्मे नोकम्मरई अ सद्ददव्वाई । भावरई तस्सेव उ उदए एमेव अरईवि ॥ ३६२ ॥ द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा - कर्मद्रव्यरति नौकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि-रतिकारणानि । भावरतिः 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यम|तिदिशन्नाह For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy