________________
दशवैका ० हारि-वृत्तिः
॥ २६९ ॥
अथ चूलिके ।
अधुनौघतवडे आरभ्येते, अनयोश्चायमभिसंबन्धः - इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह
दुब्वे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो । तं पुण उत्तरतंतं सुअगहिअत्थं तु संग्रहणी ॥ ३५९ ॥
नामस्थापने क्षुण्णत्वादनादृत्याह - 'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् 'उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एतच्चोत्तरतन्त्रं 'श्रुतगृहीतार्थमेव' द शवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह- 'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽह
दव्वे सच्चित्ताई कुकुडचूडामणीमऊराई । खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ॥ ३६० ॥
'द्रव्य' इति हव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताया' सचित्ता अ- ४ ॥ २६९ ॥ चित्ता मिश्रा च यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र'
Jain Education International
१ रतिवाक्यचूला
For Private & Personal Use Only
www.jainelibrary.org