________________
दशवैका ० हारि-वृत्तिः
॥ २७० ॥
Jain Education Int
वक्कं तु पुत्र्वभणिअं धम्मे रइकारगाणि वक्काणि । जेणमिमीए तेणं रइवकेसा हवइ चूडा ॥ ३६३ ||
वाक्यं तु पूर्वभणितं - वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे 'रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तॄणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह चजह नाम आउरस्सिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छा ऽऽमदोसविरई हिअकरी उ ।। ३६४ ॥ • यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य 'इह' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दाष्टन्तिकयोजनामाह
अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिमिच्छाए । धम्मे रई अधम्मे अरई गुणकारिणी होइ ॥ ३६५ ॥ 'अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण 'चिकित्साया' संयमरूपायां प्रक्रान्तायामना नलोचादिना पीडाभावेऽपि 'घ' श्रुतादिरूपे 'रतिः' आसक्तिः 'अधर्मे' तद्विपरीते 'अरतिः' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पष्टयति
For Private & Personal Use Only
१ रतिवा
क्यचूला
॥ २७० ॥
ainelibrary.org