Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 542
________________ दशवैका ० हारि-वृत्तिः ॥ २७० ॥ Jain Education Int वक्कं तु पुत्र्वभणिअं धम्मे रइकारगाणि वक्काणि । जेणमिमीए तेणं रइवकेसा हवइ चूडा ॥ ३६३ || वाक्यं तु पूर्वभणितं - वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे 'रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तॄणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह चजह नाम आउरस्सिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छा ऽऽमदोसविरई हिअकरी उ ।। ३६४ ॥ • यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य 'इह' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दाष्टन्तिकयोजनामाह अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिमिच्छाए । धम्मे रई अधम्मे अरई गुणकारिणी होइ ॥ ३६५ ॥ 'अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण 'चिकित्साया' संयमरूपायां प्रक्रान्तायामना नलोचादिना पीडाभावेऽपि 'घ' श्रुतादिरूपे 'रतिः' आसक्तिः 'अधर्मे' तद्विपरीते 'अरतिः' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पष्टयति For Private & Personal Use Only १ रतिवा क्यचूला ॥ २७० ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574