Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवैका ० हारि-वृत्तिः
॥ २६७ ॥
Jain Education Inte
यिकभावः स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ एतदेव स्पष्टयति- 'प्रतिमां' मासादिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्ट्वा' रौद्रभयहेतुनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्तञ्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह - 'व्युत्सृष्टत्यक्तदेह:' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देह:- शरीरं येन स तथाविधः, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खड्गादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा 'अनिदानो' भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ भिक्षुखरूपाभिधानाधिकार एवाह - 'अभिभूय' पराजित्य 'कायेन' शरीरेणापि न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, 'परीषहान' क्षुदादीन्, 'समुद्धरति' उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह - 'विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महाभयं' महाभयकारणं, 'तपसि रतः' तपसि सक्तः, किंभूत इत्याह- 'श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १४॥ तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्तः,
For Private & Personal Use Only
1-%-*
१० सभि -
क्ष्वध्य०
॥ २६७ ॥
ainelibrary.org

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574