SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २६७ ॥ Jain Education Inte यिकभावः स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ एतदेव स्पष्टयति- 'प्रतिमां' मासादिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्ट्वा' रौद्रभयहेतुनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्तञ्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह - 'व्युत्सृष्टत्यक्तदेह:' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देह:- शरीरं येन स तथाविधः, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खड्गादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा 'अनिदानो' भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ भिक्षुखरूपाभिधानाधिकार एवाह - 'अभिभूय' पराजित्य 'कायेन' शरीरेणापि न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, 'परीषहान' क्षुदादीन्, 'समुद्धरति' उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह - 'विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महाभयं' महाभयकारणं, 'तपसि रतः' तपसि सक्तः, किंभूत इत्याह- 'श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १४॥ तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्तः, For Private & Personal Use Only 1-%-* १० सभि - क्ष्वध्य० ॥ २६७ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy