________________
नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाह
नामंठवणसयारो दुव्वे भावे अ होइ नायव्यो । दुव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ ३२८ ॥ नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीव: 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह
निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ॥ ३२९ ॥ निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः। तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देशप्रसंशायामिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति
जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिणेहिं । तेसिं समावणंमिति (मी) जो भिक्खू भन्नइ स भिक्खू ॥ ३३० ॥ ये 'भावाः' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिताः'।
दश०४४
Jain Education in
For Private Personal Use Only
TIMainelibrary.org