________________
१० सभि
दशबैका कथिता जिनैः-तीर्थकरगणधरैः, 'तेषां भावानां 'समापने यथाशक्त्या(क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तहारि-वृत्तिः नयनेन 'यो भिक्षुः तदर्थ यो भिक्षणशीलो न तूदरादिभरणार्थ भण्यते स भिक्षुरिति, इतिशब्दस्य व्यव
हित उपन्यासः। स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ॥ प्रशंसायामाह॥२५९॥
चरगमरुगाइआणं भिक्खुजीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ सभिक्खू ॥ ३३१ ।। 'चरकमरुकादीना'मिति चरकाः-परिव्राजकविशेषाः मरुका-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अ18मीषां 'भिक्षोपजीविना भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा 'अध्ययनगुणनियुक्तः' प्रक्रान्तशास्त्रनिष्य
न्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ॥ उक्तः सकारः, इदानी भिक्षुमभिधातुकाम आह
भिक्खुस्स य निक्खेवो निरुत्तएगद्विआणि लिंगाणि । अगुणढिओ न भिक्खू अवयवा पंच दाराई ॥ ३३२॥ भिक्षोः 'निक्षेपो' नामादिलक्षणः कार्यः, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा 'एकाथिकानि' पर्यायशब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि' संवेगादीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वाच्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः॥ यथाक्रम व्यासार्थमाह
णामंठवणाभिक्खू दवभिक्खू अ भावभिक्खू अ । दव्वम्मि आगमाई अन्नोऽवि अ पजवो इणमो ॥ ३३३ ।।
॥२५९॥
+
Jain Education in
For Private & Personal Use Only
Mini.jainelibrary.org