SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ SAGACSIRACK 'नामस्थापनाभिक्षु रिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह-द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः' आगमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ॥ भेअओ भेअणं चेव, भिंदिअव्वं तहेव य । एएसिं तिण्हंपि अ, पत्तेअपरूवणं वोच्छं ॥ ३३४ ॥ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्टादीति भावः । एतेषां 'त्रयाणामपि भेदकादीनां 'प्रत्येक' पृथक्पृथक प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू । अन्नेवि दव्वभिक्खू जे जायणगा अविरया अ ॥ ३३५ । यथा 'दारुकर्मकरों वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधाः-गृहस्था लिङ्गिनश्चेति, तदाह गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्गंता । जीवणिअ दीणकिविणा ते विज्जा दव्यभिक्खुत्ति ।। ३३६ ।। 'गृहिणोऽपि सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालो Jain Education India For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy