________________
दशवैका ० हारि-वृत्तिः
॥ २६० ॥
Jain Education Inte
चकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षवः, एते च विग्वर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनपणा' कार्पटिकादयो भिक्षामन्ति तान् 'विद्याद्' विजानीयाद्द्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथार्थः ॥ उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह
मिच्छद्द्द्दिट्ठी तसथावराण पुढवाइविंदिआईणं । निचं वहकरणरया अवभयारी अ संचइआ ॥ ३३७ ॥
शाक्य भिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, सस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:सदैतदतिपाते सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह
दुपयचउप्पयधणधन्नकुविअति अति अपरिग्गहे निरया । सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ || ३३८ ॥
द्विपदं दास्यादि चतुष्पदं - गवादि धनं हिरण्यादि धान्यं - शाल्यादि कुप्यम्-अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे - कृतकारितानुमतपरिग्रहे निरताः - सक्ताः । न चैतदनार्थम् - " विहारान् कारयेद्रस्यान्वासयेच्च बहुश्रुतान्” इतिवचनात् सद्भूतगुणानुष्ठायिनो नेत्थंभूता | इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, 'पचन्तश्च' स्वयंपचास्तापसा
For Private & Personal Use Only
१० सभि श्वध्य०
॥ २६० ॥
ainelibrary.org