SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः विनयसमाध्यध्ययनम् ४ उद्देशः ॥२५८॥ सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन'रिति विपुलं-विस्तीर्ण हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पद-स्थानं क्षेम-शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ॥ ६॥ एतदेव स्पष्टयति-'जातिमरणात् संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती'दंप्रकारमापन्नमित्थम् इत्थं स्थितमित्थंस्थं-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच त्यजति 'सर्वश' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं 'सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वतः' अपुनरागामी सावशेषकर्मा देवो वा 'अल्परतः' कण्डूपरिगतकण्डूयनकल्परतरहितः 'महर्द्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ॥७॥ इति चतुर्थः ॥ ४॥ इति श्रीमद्धरिभद्रसूरिविरचितायां दशवकालिकटीकायां व्याख्यातं विनयसमाध्यध्ययनं नाम नवममध्ययनम् ॥९॥ ॥२५८॥ अथ दशमं सभिश्वध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचार प्रणिहितो यथोचितवि Jain Education For Private Personal use only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy