Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
४, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्य, विनये विनयावा समाधिः विनयस-13 माधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ॥ एतदेव श्लोकेन संगृह्णाति-विनये यथोक्तलक्षणे 'श्रुते' अङ्गादौ 'तपसि' बाह्यादौ 'आचारे च' मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं सर्वकालं 'पण्डिताः' सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-अभिरमयन्ति' अनेकार्थवादाभिमुख्येन विनयादिषु युञ्जते
आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥१॥
चउव्विहा खलु विणयसमाही भवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १ सम्म सं___ पडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । भवइ ___ अ इत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य मा
णमएण मज्जई, विणयसमाहि आययट्ठिए ॥२॥ विनयसमाधिमभिधित्सुराह-चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, 'अणुसासिज्जंतो' इत्यादि, 'अनुशास्यमानः' तत्र तत्र चोद्यमानः 'शुश्रूषति' तदनुशासनमर्थितया श्रोतुमिच्छ |१, इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग्-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, स
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574