________________
२४
2.
भिक्षुन्यायकर्णिका
ईश्वरीयज्ञाने इन्द्रियाणामनावश्यकत्वेनारोपितमेव तत्र
तदितिभावः ।
जैन सम्प्रदाये तु अक्षशब्दः आत्मवाचकोऽपि स्वीकृतः । अतः अत्र मते इन्द्रियनिरपेक्षं तथा केवलमात्माश्रितमेवज्ञानं प्रत्यक्षमित्युच्यते । इन्द्रियाश्रितं ज्ञानं तु वस्तुतः परोक्षमेव । अक्षपदस्येन्द्रियपरं व्याख्यानं तु अत्र अन्यदर्शनानुसारमेवेति
ज्ञेयम् ।
इदानीं स्वाभिमतं प्रत्यक्षप्रमाणं लक्षयन् सूत्रयति
साहाय्यनिरपेक्षं प्रत्यक्षम्
यस्मिन् प्रमाणान्तराणां पौद्गलिकेन्द्रियाणाञ्च साहाय्यं नापेक्षणीयं तत् स्पष्टत्वात्, अव्यवहितात्ममात्रापेक्षत्वाच्च प्रत्यक्षम् ।
सहायता - निरपेक्ष ज्ञान को प्रत्यक्ष ज्ञान कहा जाता है।
जिस ज्ञान में दूसरे प्रमाणों तथा पौद्गलिक इन्द्रियों के सहयोग की अपेक्षा नहीं रहती वह ज्ञान स्पष्ट, अव्यवहित और आत्ममात्रापेक्ष होने के कारण प्रत्यक्ष कहलाता है। न्या. प्र. - यस्मिन् ज्ञाने कस्यापि साहाय्यं नापेक्ष्यते तद् ज्ञानमेव प्रत्यक्षम् । प्रमाणान्तराणां तथा पौद्गलिकेन्द्रियाणाञ्च यत्र सहयोगोऽपेक्षितो न भवेत् तद् स्पष्टम् अव्यवहितञ्च आत्ममात्रापेक्षं ज्ञानं प्रत्यक्षम् । ज्ञानस्यात्ममात्रापेक्षत्वं हि ज्ञानस्य स्पष्टत्वे अव्यवहितत्वे च हेतुरितिबोध्यम् । यद्यपि दर्शनान्तरेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org