Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट
२१७
परिशिष्टस्य 101 पृष्ठे नैयायिकानां कालात्यापदिष्टप्रकरणसमौ विशिष्टौ स्तः इत्यपि लिखितवानस्ति। तत्र प्रथमन्तावदेषामुपरि विचारकरणात् पूर्वमिदं विचारपथमानीयते यत् कोऽयं हेत्वाभास इति। तत्र हेत्वाभासशब्दस्य व्युत्पत्तिद्वयं भवति। हे तुवद् आभासन्ते इति हेत्वांभासाः इति प्रथमा व्युत्पत्तिः। अस्येदं तात्पर्य यत् अहेतुत्वेऽपि हेतुवत् ये आभासन्ते प्रतीयन्ते ते हेत्वाभासाः। द्वितीया व्युत्पत्तिरित्थम् हेतोराभासाः दोषा एव हेत्वाभासाः। अत्र प्रथमव्युत्पत्त्या दोषयुक्ता दुष्टहेतव एव हेत्वाभासपदेन बोद्ध शक्यन्ते, किन्तु द्वितीयव्युत्पत्त्या तु आभासपदस्य दोषपरत्वं स्वीकृत्य हेतोर्दोषा एव हेत्वाभासपदेन बोध्यन्ते । यदा हेतूनां दोषा: परिज्ञाता भवन्ति तदा तैर्दोषैर्युक्ता हेतवो हेत्वाभासपदेन व्यवहर्तुं योग्या एवेति न संशयः। उपर्युक्त विवेचनेन सिद्धमिदं भवति यत् दोषयुक्ता हेतव एव हेत्वाभासपदेन कथ्यन्ते। न्यायदर्शनानुसारं व्यभिचारविरोधसत्प्रतिपक्षासिद्धबाधाः पञ्च दोषा भवन्ति। एभिः पञ्चभिर्दोषैर्युक्ताः पञ्च दुष्टहेतवो हेत्वाभासाः भवन्ति । एषां लक्षणोदाहरणानि च इत्थम्। सव्यभिचार:-अस्य नामान्तरमस्ति - अनैकान्तिकः। अस्य त्रयो भेदाः भवन्ति। साधारणानैकान्तिकः असाधारणानैकान्तिकः, अनुपसंहारी चेति। तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b4a375833b2e461a930853549a4ca671fbf77c1692ff520320d4fd916a33cc1b.jpg)
Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286