Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 262
________________ परिशिष्ट २२९ तथ्यम् अनुमानप्रमाणद्वारा निर्णीतमिति संदिग्धविपक्षवृत्तिक: अनैकान्तिकोऽत्र। निर्णीतविपक्षवृत्तिको यथा – शब्दो नित्यः प्रमेयत्वात् अस्मित्रनुमाने शब्दः पक्ष: आकाशं सपक्षः घटो विपक्षः । अत्र नित्यत्वाभावाधिकरणेऽनित्ये घटादौ विपक्षे प्रमेयत्वहे तोर्दर्शनात् निर्णीतविपक्षवृत्तिकोऽनैकान्तिकोऽत्र। सम्प्रति दृष्टान्ताभासान् प्रस्तोतुकामस्तानवतारयतिप्रथमन्तावत् दृष्टान्ताभासो द्विविध:, अन्वयिदृष्टान्ताभासः, व्यतिरेकिदृष्टान्ताभासश्च । तत्र अन्वयिदृष्टान्ताभासः सप्तविध:- साध्यविकलः, साधनविकल:, उभयविकलः, संदिग्धसाध्यः, संदिग्ध-साधन:, संदिग्धोभयः,विपरीतान्वयश्च । तत्र 5. अन्वयिदृष्टान्ताभासा:(क) साध्यविकल:-अपौरुषेयः शब्दः, अमूर्त्तत्वात्, दुःखवत् । दुखं पुरुषव्यापारमन्तरा नोत्पद्यत इति पौरुषेयमिदमपौरुषे यसाध्ये न वर्तत इति साध्यविकलत्वम्। (ख) साधनविकल:- अपौरुषेयः शब्दः, अमूर्त्तत्वात्, परमाणुवत् । अत्र साध्यधर्मोऽपौरुषेयत्वं परमाणावस्ति किन्तु साधनधर्मोऽमूर्त्तत्वं नास्ति किञ्च स मूर्तो भवतीति साधनविकलत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286