Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 249
________________ २१६ भिक्षुन्यायकर्णिका (च) (छ) (ङ) पूर्वचरानुपलब्धि:- नोद्गमिष्यति मुहूर्तान्ते स्वाति नक्षत्रम् चित्रोदयादर्शनात्। अत्र प्रतिषेध्यः स्वातिनक्षत्रोदयः, तत्पूर्वचर: चित्रोदयस्तस्यानुपलब्धिरिति पूर्वचरानुपलब्धिः। उत्तरचरानुपलब्धि:- नोद्गमत् पूर्वभाद्रपदा, मुहूर्तात् पूर्वम् उत्तरभाद्रपदोद्गमानवगमात् । अत्र प्रतिषेध्यः पूर्वभाद्रपदोदयः, तदुत्तरचरः उत्तरभाद्रपदोदयः, तस्यानुपलब्धिरित्युत्तरचरानुपलब्धिः। सहचरानुपलब्धिः- यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः । अत्र प्रतिषेध्यं सम्यग्ज्ञानं तत् सह चरः सम्यग् दर्शनं तस्य अनुपलब्धे : सहचरानुपलब्धिः स्पष्टा। इदानीं यावत् सहभावक्रमभावस्वभावहेतवः कस्यापि वस्तुनोभावं साधयन्तो भावहेतवः अभावञ्चसाधयन्तो निषेधहेतवो भवन्तीति प्रतिपादितम् । इदमप्यत्र बोध्यं यत् भावात्मका हेतवो यथा विधिसाधका भवन्ति, तथैव निषेधसाधका अपि भवन्ति। एवम् अभावात्मका हेतवोऽपि विधिसाधकाः प्रतिषेधसाधकाश्च भवन्ति । एतेषामुदाहरणानि पुस्तके सन्त्युल्लिखितानि । सम्प्रति हेत्वाभासोपरिविचारमारभमाणो ग्रन्थकारस्तृतीयविभागस्य षोडशसूत्रे असिद्धविरुद्धा-नैकान्तिकानां त्रयाणां हेत्वाभासानां नामग्राहमुल्लेखं कृतवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286