Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 248
________________ परिशिष्ट २१५ साधयति। अत्र पुस्तकाभावः साध्योऽस्ति। उपलब्धिः ज्ञानं, तस्याभावोऽनुपलब्धिरज्ञानं अर्थात् ज्ञानविषयत्वाभावः। स च ज्ञानविषयत्वाभावः पुस्तकस्य, दृश्यानुपलब्धेरिति हेतुना साध्यते। यतो दृश्यानुपलब्धिस्तत एव पुस्तकाभावः। (ख) व्यापकानुपलब्धि:- नास्त्यत्र प्रदेशे पनसः, पादपानुप-लब्धेः अत्र पनसत्वं निषेधितव्यमस्ति। तद् व्यापकमस्ति पादपत्वम् । तस्यानुपलब्धिरिति व्यापकानुपलब्धिः। व्यापकाभावे व्याप्याभाव: सुतराम्। (ग) कार्यानुपलब्धि:- कारणाभावे कार्याभावः सुतराम्। नास्त्यत्राप्रतिहतशक्तिकं बीजम् अङ्करानवलोकनात् । अत्र प्रतिषेध्यम् अप्रतिहतशक्तिकं बीजं, तत्कार्यम् अङ्करं तस्य अनुपलब्धिरिति कार्यानुपलब्धिः स्पष्टा । सशक्तिकबीजाभावे अङ्कराभावः निश्चित एवास्ते। (घ) कारणानुपलब्धि:- न सन्त्यस्य प्रशमप्रभृतयो भावाः तत्त्वार्थश्रद्धानाभावात्। अत्र प्रतिषेध्यं प्रशमप्रभृतयोभावाः प्रशमसंवेग निर्वेदानुकम्पाऽऽस्तिक्यस्वरूपात्मपरिणामविशेषाः, तत् कारणमस्ति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्यानुपलब्धिरिति कारणानुपलब्धिः। एवमेव नास्त्यत्र धूमो वन्यभावादित्यपि उदाहरणं भवितुर्महति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286