Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 257
________________ २२४ भिक्षुन्यायकर्णिका विरुद्धम् आगम-विरुद्धं च साध्यं साधयितुं पक्षवृत्तित्वेनोपात्तः स्यात्स एव कालात्ययापदिष्टः। यथा- अग्निः अनुष्णः कृतकत्वात् घटवत्। अत्र अग्नेरनुष्णत्वं प्रत्यक्षबाधि-तमिति तं साधयितुं प्रयुक्तः कृतकत्वं हेतुः बाधित एव। प्रकरणसमः – यो हेतुः पक्षे प्रतिपक्षे च तुल्य: स्यात् स प्रकरणसमः। यथा अनित्यः शब्दः नित्यधर्मानुपलब्धेः घटवत्, इत्युक्ते परः प्रतिवादी कथयति शब्दो नित्यः अनित्यधर्मानुपलब्धेः आकाशवत् । अत्र परस्परस्य साध्याभावस्य साधकं हेत्वन्तरमुपस्थितं भवतीति किमपि साध्यं साधयितुं न शक्यते। इमौ हेत्वाभासौ न्यायदर्शने स्वीकृतौ स्तः। जैनन्याये तु अनयोः स्वीकृति स्ति। आचार्यों हेमचन्द्रः कालात्ययापदिष्टं पक्षदोषेष्वेवान्तर्भावयति। पक्षाभासास्त्रयः। ते च प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणात्मकाः। अयं च बाधित: कालात्ययापदिष्टः हेत्वाभासो लोकनिराकृतसाध्यधर्मविशेषणेऽन्तर्भावयितुमुपयोज्यत एव । यथा अग्निः अनुष्णः द्रव्यत्वात् अत्राग्नेरनुष्णत्वं लोकप्रतीत्यैव निराकृतमिति न पृथक गणनीयोऽयं हेत्वाभासः। प्रकरणसमः सत्प्रतिपक्षस्तु संभवत्येवनेति व्याजहार हेमचन्द्रः। शब्दोऽनित्यः, पक्षसपक्षयोरन्यतरत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286