________________
पञ्चमो विभागः
१३५
नय के दो भेद हैं- द्रव्यार्थिक और पर्यायार्थिक।
प्रधानरूप से अभेदग्राही नय को द्रव्यार्थिक और भेदग्राही नय को पर्यायार्थिक कहा जाता है।
जितने विचार मार्ग हो सकते हैं, उतने ही नय हैं, इस. दृष्टि से नय अनन्त हैं फिर भी उनका वर्गीकरण करने पर वे सब द्रव्यार्थिक और पर्यायार्थिक में समाहित हो जाते हैं। न्या. प्र.- प्रधानतया नयस्य द्वौभेदौ - द्रव्यार्थिक: पर्यायार्थिकश्च। अस्य स्पष्टीकरणं तु इत्थं बोध्यम् - प्रतिपत्तुरभिप्रायो नयः इत्युक्तं प्राक् । तत्राभिप्रायाणामनन्तत्वेऽपि तत्र विभागद्वयं भवति - एकस्तु अभेदग्राहकोऽभिप्रायः। अपरश्च भेदग्राहकोऽभिप्रायः। वस्तु स्वरूपतः अभिन्नमखण्डमेकं च भवति। तदेव वस्तु स्वकीय गुणपर्यायद्वारा विभिन्नरूपेण गृह्यते। रूपवान् घट: स्थूलो घटः इत्यादिरूपेण तदीयं ग्रहणं प्रसिद्धमेव। तत्र अभेदग्राहिणी दृष्टि : द्रव्यदृष्टिः तथा भेदग्राहिणी दृष्टि : पर्यायदृष्टि : कथ्यते। तत्र प्रधानरूपेण अभेदग्राही नयः द्रव्यार्थिकनयः कथ्यते । एवमेव प्राधान्येन भेदग्राही नयः पर्यायार्थिकनय इति व्यवहारः। विचारमार्गोऽनन्तः । अस्यां स्थितौ यावन्तो विचारमार्गाः तावन्तो नया भवितुं शक्नुवन्ति। एवञ्च नयानामानन्त्यं वक्तुं शक्यते तथापि वर्गीकरणतः सर्वेऽपि द्रव्यार्थिकपर्यायार्थिकनययोरेव समाहिताः भवन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org